श्लोकः -
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।
पदविभागः - धर्मक्षेत्रे, कुरुक्षेत्रे, समवेताः, युयुत्सवः, मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय।
कारकाणि –
1. कुरुक्षेत्रे – अधिकरणकारकम्, धर्मक्षेत्रे विशेषणम्।
2. मामकाः, पाण्डवाः – कर्तृकारकम्, समवेताः युयुत्सवः विशेषणम्।
3. किम् – कर्मकारकम्
सन्धयः
1. समवेता युयुत्सवः – समवेतास् युयुत्सवः
ससजुषो रुः (पा.सू. 8-2-66) रुत्वम्। भोभगोअघोअपूर्वस्य योशि (पा.सू. 8-3-17) यत्वम्, हलि सर्वेषाम् (पा.सू. 8-3-22) यलोपः।
2. पाण्डवाश्चैव – पाण्डवास् च एव
ससजुषो रुः (पा.सू. 8-2-66) रुत्वम्, खरवसानयोर्विसर्जनीयः (पा.सू. 8-3-15) विसर्गः, विसर्जनीयस्य सः (पा.सू. 8-3-34) सः, स्तोः श्चुना श्चुः (पा.सू. 8-4-40) श्चुत्वम्।
वृद्धिरेचि (पा.सू. 6-1-88) वृद्धिः।
समासाः
1. धर्मक्षेत्रे – धर्मस्य क्षेत्रम्,
षष्ठी (पा.सू.
2-2-8) इति समासः। नपुं. स.वि. ए.व.।
धर्म – धृ मन्
(धृञ् धारणे, भ्वादिः,
सि.कौ. - धा.सं. 900) अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो
मन् (उणा. 1-137) इति मन्, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः।
क्षेत्र –
क्षि ष्ट्रन्
(क्षि निवासगत्योः, तुदादिः, सि.कौ.
- धा.सं. 1407) सर्वधातुभ्यः ष्ट्रन् (उणा.
4-158) इति ष्ट्रन्, सार्वधातुकार्धधातुकयोः (पा.सू.
7-3-84) इति गुणः।
2.
कुरुक्षेत्रे – कुरूणां क्षेत्रम्, षष्ठी (पा.सू. 2-2-8) इति समासः। नपुं. स.वि. ए.व.।
कुरु – कृ कु
(डुकृञ् करणे, तनादिः, सि.कौ. - धा.सं. 1472) कृग्रोरुच्च
(उणा. 1-24) इति सूत्रेण कु-प्रत्ययः धातोः ऋ-वर्णस्य उदादेशः, उरण्रपरः (पा.सू.
1-1-51) इति रपरः।
क्षेत्र – क्षि ष्ट्रन्
(क्षि क्षये, भ्वादिः, सि.कौ. - धा.सं. 236) सर्वधातुभ्यः ष्ट्रन् (उणा. 4-158) इति ष्ट्रन्, सार्वधातुकार्धधातुकयोः (पा.सू.
7-3-84) इति गुणः।
कृदन्ताः
3. समवेताः – सम् अव इण् क्त।
पुं. प्र.वि. ब.व.।
(इण् गतौ, अदादिः, सि.कौ.
- धा.सं. 1045) गत्यर्थाकर्मकश्लिषशीङ्स्थासवसवसजनरुहजीर्यतिभ्यश्च (पा.सू. 3-4-72) इति क्त-प्रत्ययः,
आद्गुणः (पा.सू.
6-1-87) इति गुणः।
4.
युयुत्सवः - युध् सन् उ। पुं. प्र.वि. ब.व.।
(युध सम्प्रहारे, दिवादिः, सि.कौ. - धा.सं.
1173) धातोः कर्मणः समानकर्तृकादिच्छायां वा (पा.सू. 3-1-7) इति सन्,
सन्यङोः (पा.सू.
6-9-1) इति द्वित्वम्, हलादिः शेषः (पा.सू. 7-4-60) इति आदिर्हल् शिष्यते, आर्धधातुकस्येड्वलादेः (पा.सू.
7-2-35) इति इडागमे प्राप्ते, एकाच उपदेशेनुदात्तात्
(पा.सू. 7-2-10 इति इटः निषेधः, खरि च (पा.सू. 8-4-55) इति चर्त्वम्, सनाशंसभिक्ष उः (पा.सू. 3-2-168) इति उ-प्रत्ययः,
अतो लोपः (पा.सू. 6-4-48) इति अ-लोपः।
5.
सञ्जय - कस्यचित् संज्ञा। सम् जि अच्। पुं. सम्बो.वि. ए.व.।
(जि जये, भ्वादिः, सि.कौ.
- धा.सं. 561) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा.सू. 3-1-134) इति अच्, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः, एचोऽयवायावः (पा.सू.
6-1-78) इति अयादेशः।
6.
किम् - किम् सु, नपुं. द्वि.वि.
ए.व.।
स्वमोर्नपुंसकात् (पा.सू. 7-1-23) इति सुलोपः। किम् इत्यत्र कु-धातोः (कुङ् शब्दे, भ्वादिः,
सि.कौ. - धा.सं. 951) बाहुलकात् डिम्-प्रत्ययः, डित्त्वसामर्त्यात् अभस्यापि टेर्लोपः।
तद्धितान्ताः
7.
मामकाः – अस्मद् ङस् अण्। पुं. प्र.वि. ब.व.।
युष्मदस्मदोरन्यतरस्यां खञ् च (पा.सू. 4-3-1) इति अण्-प्रत्ययः, तवकममकावेकवचने (पा.सू.
4-3-3) इति अस्मद्-शब्दस्य ममकादेशः, तद्धितेष्वचामादेः (पा.सू.
7-2-117) इति आदिवृद्धिः। अस्मद् इत्यत्र अस्-धातोः (अस भुवि, अदादिः,
सि.कौ. - धा.सं. 1064) युष्यसिभ्यां मदिक्
(उणा. 1-136) इति मदिक्।
8. पाण्डवाः – पाण्डु ङस् अण्। पुं. प्र.वि.
ब.व.।
ऋष्यन्धकवृष्णिकुरुभ्यश्च (पा.सू. 4-1-114) इति अण्-प्रत्ययः, ओर्गुणः (पा.सू.
6-4-146) इति गुणः, एचोऽयवायावः (पा.सू. 6-1-78) इति अवादेशः।
पाण्डु इत्यत्र पड्-धातोः (पडि गतौ,
भ्वादिः, सि.कौ.
- धा.सं. 281) इदितो नुम्धातोः (पा.सू.
7-1-58) इति नुम्, नश्चापदान्तस्य झलि
(पा.सू. 8-3-24) इति नकारस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः (पा.सू. 8-4-58) इति अनुस्वारस्य परसवर्णः णकारः,
ततः मृगय्वादयश्च (उणा. 1-37) इति कु-प्रत्ययः, पृषोदरादीनि यथोपदिष्टम्
(पा.सू. 6-3-109) इति धातोः अकारस्य दीर्घः।
अव्ययम्
9. च - अव्ययम्।
10. एव – अव्ययम्। इण् वन्
(इण् गतौ, अदादिः, सि.कौ.
- धा.सं. 1054) इण्शीभ्यां वन् (उणा. 1-150) इति वन्-प्रत्ययः, सार्वधातुकार्धधातुकयोः (पा.सू.
7-3-84) इत्यनेन गुणः।
तिङन्तः
11. अकुर्वत – कृ लङ्। लङ्, प्र.पु, ब.व.।
(डुकृञ् करणे, तनादिः, सि.कौ. - धा.सं. 1472), लङः झ, तनादिकृञ्भ्य उः (पा.सू. 3-2-79) इति उ-प्रत्ययः,
आत्मनेपदेष्वनतः (पा.सू 7-1-5) इति अत्-आदेशः
झस्य, लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा.सू. 6-4-71) इति अट्-आगमः।
No comments:
Post a Comment