Tuesday, December 26, 2023

प्रथमाध्यायः, प्रथमः श्लोकः

श्लोकः

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।

पदविभागः - धर्मक्षेत्रे, कुरुक्षेत्रे, समवेताः, युयुत्सवः, मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय।

कारकाणि –

1.       कुरुक्षेत्रेअधिकरणकारकम्, धर्मक्षेत्रे विशेषणम्।

2.       मामकाः, पाण्डवाःकर्तृकारकम्, समवेताः युयुत्सवः विशेषणम्।

3.       किम्कर्मकारकम्

सन्धयः

1.       समवेता युयुत्सवः – समवेतास् युयुत्सवः

ससजुषो रुः (पा.सू. 8-2-66) रुत्वम्। भोभगोअघोअपूर्वस्य योशि (पा.सू. 8-3-17) यत्वम्, हलि सर्वेषाम् (पा.सू. 8-3-22) यलोपः।

2.       पाण्डवाश्चैव – पाण्डवास् च एव

ससजुषो रुः (पा.सू. 8-2-66) रुत्वम्, खरवसानयोर्विसर्जनीयः (पा.सू. 8-3-15) विसर्गः, विसर्जनीयस्य सः (पा.सू. 8-3-34) सः, स्तोः श्चुना श्चुः (पा.सू. 8-4-40) श्चुत्वम्।

वृद्धिरेचि (पा.सू. 6-1-88) वृद्धिः।

समासाः

1.       धर्मक्षेत्रे  धर्मस्य क्षेत्रम्, षष्ठी (पा.सू. 2-2-8) इति समासः। नपुं. .वि. ..

धर्म धृ मन्

(धृञ् धारणे, भ्वादिः, सि.कौ. - धा.सं. 900)  अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् (उणा. 1-137) इति मन्, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः।

क्षेत्र क्षि ष्ट्रन्

(क्षि निवासगत्योः, तुदादिः, सि.कौ. - धा.सं. 1407) सर्वधातुभ्यः ष्ट्रन् (उणा. 4-158) इति ष्ट्रन्, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः।

2.       कुरुक्षेत्रे  कुरूणां क्षेत्रम्, षष्ठी (पा.सू. 2-2-8) इति समासः। पुं. .वि. ..

कुरु कृ कु

(डुकृञ् करणे, तनादिः, सि.कौ. - धा.सं. 1472) कृग्रोरुच्च (उणा. 1-24) इति सूत्रेण कु-प्रत्ययः धातोः ऋ-वर्णस्य उदादेशः, उरण्रपरः (पा.सू. 1-1-51) इति रपरः।

क्षेत्र क्षि ष्ट्रन्

(क्षि क्षये, भ्वादिः, सि.कौ. - धा.सं. 236) सर्वधातुभ्यः ष्ट्रन् (उणा. 4-158) इति ष्ट्रन्, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः।

कृदन्ताः

3.       समवेताः – सम् अव इण् क्त। पुं. प्र.वि. ..

(इण् गतौ, अदादिः, सि.कौ. - धा.सं. 1045) गत्यर्थाकर्मकश्लिषशीङ्स्थासवसवसजनरुहजीर्यतिभ्यश्च (पा.सू. 3-4-72) इति क्त-प्रत्ययः, आद्गुणः (पा.सू. 6-1-87) इति गुणः।

4.       युयुत्सवः  - युध् सन् उ। पुं. प्र.वि. ..

(युध सम्प्रहारे, दिवादिः, सि.कौ. - धा.सं. 1173) धातोः कर्मणः समानकर्तृकादिच्छायां वा (पा.सू. 3-1-7) इति सन्, सन्यङोः (पा.सू. 6-9-1) इति द्वित्वम्, हलादिः शेषः (पा.सू. 7-4-60) इति आदिर्हल् शिष्यते, आर्धधातुकस्येड्वलादेः (पा.सू. 7-2-35) इति इडागमे प्राप्ते, एकाच उपदेशेनुदात्तात् (पा.सू. 7-2-10 इति इटः निषेधः, खरि (पा.सू. 8-4-55) इति चर्त्वम्, सनाशंसभिक्ष उः (पा.सू. 3-2-168) इति उ-प्रत्ययः, अतो लोपः (पा.सू. 6-4-48) इति अ-लोपः।

5.       सञ्जय - कस्यचित् संज्ञा। सम् जि अच्। पुं. सम्बो.वि. ..

(जि जये, भ्वादिः, सि.कौ. - धा.सं. 561) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा.सू. 3-1-134)  इति अच्, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः, एचोऽयवायावः (पा.सू. 6-1-78) इति अयादेशः।

6.       किम् - किम् सु, पुं. द्वि.वि. ..

स्वमोर्नपुंसकात् (पा.सू. 7-1-23) इति सुलोपः। किम् इत्यत्र कु-धातोः (कुङ् शब्दे, भ्वादिः, सि.कौ. - धा.सं. 951) बाहुलकात् डिम्-प्रत्ययः, डित्त्वसामर्त्यात् अभस्यापि टेर्लोपः।

तद्धितान्ताः

7.       मामकाः अस्मद् ङस् अण्। पुं. प्र.वि. ..

युष्मदस्मदोरन्यतरस्यां खञ् (पा.सू. 4-3-1) इति अण्-प्रत्ययः, तवकममकावेकवचने (पा.सू. 4-3-3) इति अस्मद्-शब्दस्य ममकादेशः, तद्धितेष्वचामादेः (पा.सू. 7-2-117) इति आदिवृद्धिः। अस्मद् इत्यत्र अस्-धातोः (अस भुवि, अदादिः, सि.कौ. - धा.सं. 1064) युष्यसिभ्यां मदिक् (उणा. 1-136) इति मदिक्।

8.       पाण्डवाः पाण्डु ङस् अण्। पुं. प्र.वि. ..

ऋष्यन्धकवृष्णिकुरुभ्यश्च (पा.सू. 4-1-114) इति अण्-प्रत्ययः, ओर्गुणः (पा.सू. 6-4-146) इति गुणः, एचोऽयवायावः (पा.सू. 6-1-78) इति अवादेशः। पाण्डु इत्यत्र पड्-धातोः (पडि गतौ, भ्वादिः, सि.कौ. - धा.सं. 281) इदितो नुम्धातोः (पा.सू. 7-1-58) इति नुम्, नश्चापदान्तस्य झलि (पा.सू. 8-3-24) इति नकारस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः (पा.सू. 8-4-58) इति अनुस्वारस्य परसवर्णः णकारः, ततः मृगय्वादयश्च (उणा. 1-37) इति कु-प्रत्ययः, पृषोदरादीनि यथोपदिष्टम् (पा.सू. 6-3-109) इति धातोः अकारस्य दीर्घः।

अव्ययम्

9.       - अव्ययम्।

10.   एव – अव्ययम्। इण् वन्

(इण् गतौ, अदादिः, सि.कौ. - धा.सं. 1054) इण्शीभ्यां वन् (उणा. 1-150) इति वन्-प्रत्ययः, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इत्यनेन गुणः।

तिङन्तः

11.   अकुर्वतकृ लङ्। लङ्, प्र.पु, ..

(डुकृञ् करणे, तनादिः, सि.कौ. - धा.सं. 1472), लङः , तनादिकृञ्भ्य उः (पा.सू. 3-2-79) इति उ-प्रत्ययः, आत्मनेपदेष्वनतः (पा.सू 7-1-5) इति अत्-आदेशः झस्य, लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा.सू. 6-4-71) इति अट्-आगमः।


No comments:

Post a Comment

प्रथमाध्याय:, तृतीयः श्लोकः

  पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।। 1.3 ।। पदविभागः – पश्य, एताम्, पाण्डुपुत्राणाम्, ...