Sunday, December 31, 2023

प्रथमाध्याय:, तृतीयः श्लोकः

 

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।

पदविभागः – पश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य, महतीम्, चमूम्, व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता।

कारकाणि

·       पाण्डुपुत्राणाम् – चमुना सम्बन्धः. अतः षष्ठी।

·       चमूम् – दर्शनक्रियायां कर्मकारकम्, महतीम्, एताम्, व्यूढाम् – विशेषणम्।

·       द्रुपदपुत्रेण – व्यूहनक्रियायां कर्तृकारकम्, धीमता, शिष्येण – विशेषणम्।

·       तव – शिष्येण सम्बन्धः, षष्ठी।

सन्धयः

·       पश्यैताम् – पश्य एताम्

वृद्धिरेचि (पा.सू. 6-1-88) इति वृद्धिसन्धिः।

समासाः

·       पाण्डुपुत्राणाम् पाण्डोः पुत्राः तेषाम्, षष्ठी (पा.सू. 2-2-8) इति समासः। पुं. .वि. ..

पाण्डुण्ड् कु

(पडि गतौ, भ्वादिः, सि.कौ. - धा.सं. 281) इदितो नुम्धातोः (पा.सू. 7-1-58) इति नुम्, नश्चापदान्तस्य झलि (पा.सू. 8-3-24) इति नकारस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः (पा.सू. 8-4-58) इति अनुस्वारस्य परसवर्णः णकारः, ततः मृगय्वादयश्च (उणा. 1-37) इति कु-प्रत्ययः, पृषोदरादीनि यथोपदिष्टम् (पा.सू. 6-3-109) इति धातोः अकारस्य दीर्घः।

पुत्र पू क्त्र

(पूङ् पवने, भ्वादिः, सि.कौ. - धा.सं. 966) पुवो ह्रस्वश्च (उणा. 4-164) इति क्त्र-प्रत्ययः, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः प्राप्तः, क्ङिति (पा.सू. 1-1-5) इति गुणनिषेधः अथवा पुत्-नामनरकात् त्रायते इति पुत्पूर्वकात् त्रै-धातोः (त्रैङ् पालने, भ्वादिः, सि.कौ. - धा.सं. 965) ऐकारस्य आदेच उपदेशेऽशिति (पा.सू. 6-1-45) इति आत्वम्, सुपि (पा.सू. 3-2-4) इति योगविभागेन क-प्रत्ययः, उपपदमतिङ् (पा.सू. 2-2-19) इति समासः, आतो लोप इटि (पा.सू. 6-4-64) इति आ-लोपः, पुत् इत्यत्र पृ-धातोः (पृ प्रीतौ, स्वादिः, सि.कौ. - धा.सं. 1258) बाहुलकात् डुति-प्रत्ययः, डित्त्वसामर्थ्यात् टेः लोपः।

·       द्रुपदपुत्रेण (1-3)द्रुपदस्य पुत्रः षष्ठी (पा.सू. 2-2-8) इति समासः। पुं. तृ.वि. ..

द्रुपद - बाहुलकात् द्रु इति उपपदे पद् अच्

(पद गतौ, दिवादिः, सि.कौ. - धा.सं.1169) अच्-प्रत्ययः।

द्रु इत्यत्र द्रु-धातोः (द्रु गतौ, भ्वादिः, सि.कौ. - धा.सं. 945) मितद्र्वादिभ्य उपसंख्यानम् (वा. 2152) इति वार्तिकेन डु-प्रत्ययः, डित्त्वसामर्थ्यात् टेः लोपः।

पुत्र पू क्त्र

(पूङ् पवने, भ्वादिः, सि.कौ. - धा.सं. 966) पुवो ह्रस्वश्च (उणा. 4-164) इति क्त्र-प्रत्ययः, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः प्राप्तः, क्ङिति (पा.सू. 1-1-5) इति गुणनिषेधः अथवा पुत्-नामनरकात् त्रायते इति पुत्पूर्वकात् त्रै-धातोः (त्रैङ् पालने, भ्वादिः, सि.कौ. - धा.सं. 965) ऐकारस्य आदेच उपदेशेऽशिति (पा.सू. 6-1-45) इति आत्वम्, सुपि (पा.सू. 3-2-4) इति योगविभागेन क-प्रत्ययः, उपपदमतिङ् (पा.सू. 2-2-19) इति समासः, आतो लोप इटि (पा.सू. 6-4-64) इति आ-लोपः, पुत् इत्यत्र पृ-धातोः (पृ प्रीतौ, स्वादिः, सि.कौ. - धा.सं. 1258) बाहुलकात् डुति-प्रत्ययः, डित्त्वसामर्थ्यात् टेः लोपः।

कृदन्ताः

·       आचार्य आ चर् ण्यत्। पुं. सम्बो.वि. ..

(चर गतौ भक्षणे च, भ्वादिः, सि.कौ. - धा.सं. 559) ऋहलोर्ण्यत् (पा.सू. 3-1-124) इति ण्यत्, अचो ञ्णिति (पा.सू. 7-2-115) इति वृद्धिः।

·       व्यूढाम् - वि वह् क्त। स्त्री. द्वि.वि. ..

(वह प्रापणे, भ्वादिः, सि.कौ. - धा.सं. 1004) निष्ठा (पा.सू. 3-2-102) इति क्त-प्रत्ययः, वचिस्वपियजादीनां किति (पा.सू. 6-1-15) इति सम्प्रसारणम्, संप्रसारणाच्च (पा.सू. 6-1-108) इति पूर्वरूपम्, इको यणचि (पा.सू. 6-1-77) इति यण्, हो ढः (पा.सू. 8-2-31) इति हकारस्य ढकारः, ढो ढे लोपः (पा.सू. 8-3-13) इति ढस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः (पा.सू. 6-3-111) इति अणः दीर्घः, स्त्रियाम् अजाद्यतष्टाप् (पा.सू. 4-1-4) इति टाप्।

·       शिष्येण शास् क्यप्। पुं. तृ.वि. ..

(शासु अनुशिष्टौ, अदादिः, सि.कौ. - धा.सं. 1075) एतिस्तुशास्वृदृजुषः क्यप् (पा.सू. 3-1-109) इति क्यप्, शास इदङ्हलोः (पा.सू. 6-4-34) इति धातोः आकारस्य स्थाने इत्वम्, शासिवसिघसीनाञ्च (पा.सू. 8-3-60) इति सस्य षत्वम्।

·       महतीम् महती अम्। स्त्री. द्वि.वि. ..

अमिपूर्वः (पा.सू. 6-1-107) इति पूर्वरूपम्।

महत् ह् अति

वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (उणा.2-84) इति सूत्रेण मह्-धातोः (मह पूजायाम्, भ्वादिः, सि.कौ. - धा.सं. 730) अति-प्रत्ययान्तः निपात्यते, उगितश्च (पा.सू. 4-1-6) इति ङीप्।

·       चमूम् मू अम्। स्त्री. द्वि.वि. ..

अमिपूर्वः (पा.सू. 6-1-107) इति पूर्वरूपम्।

चमू – चम् ऊ

(चमु अदने, भ्वादिः, सि.कौ. - धा.सं. 469) कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः (उणा. 1-81) इति ऊ-प्रत्ययः।

·       तवयुष्मद् ङस्। पुं. .वि. ..

तवममौ ङसि (पा.सू. 7-2-96) इति तवादेशः, युष्मदस्मद्भ्यां ङसोऽश् (पा.सू. 7-1-17) इति अश्।

युष्मद् – युष् मदिक्

(युष भजने, सौत्रः) युष्यसिभ्यां मदिक् (उणा. 1-136) इति मदिक्-प्रत्ययः।

·       एताम् एतद् अम्स्त्री. द्वि.वि. ..

त्यदादीनामः (पा.सू. 6-1-97) इति अकारादेशः, अतो गुणे (पा.सू. 6-1-97) इति पररूपम्, अजाद्यतष्टाप् (पा.सू. 4-1-4) इति टाप्, अमि पूर्वः इति पूर्वरूपैकादेशः।

एतद् इण् अद्

(इण् गतौ, अदादिः, सि.कौ. - धा.सं. 1054) एतेस्तुट् (उणा.1.132) इति सूत्रेण अद्-प्रत्ययः प्रत्ययस्य च तुडागमः, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः

 

तद्धितान्ताः

·       धीमता (1-3) – धी मतुप्। पुं. तृ.वि. ..

तदस्यास्त्यस्मिन्निति मतुप् (पा.सू. 5-2-94) इति मतुप्-प्रत्ययः। धी इत्यत्र ध्यै-धातोः (ध्यै चिन्तायाम्, भ्वादिः, सि.कौ. - धा.सं.908) ध्यायतेः सम्प्रसारणं (वा. 2151) इति क्विप् सम्प्रसारणं च, क्विपः सर्वलोपः - हलन्त्यम् (पा.सू. 1-3-3) इति पस्य उपदेशेऽजनुनासिक इत् (पा.सू. 1-3-2) इति इकारस्य लशक्वतद्धिते (पा.सू. 1-3-8) इति ककारस्य च इत्संज्ञा, तस्य लोपः (पा.सू. 1-3-9) इति इत्संज्ञकानां लोपः, वेरपृक्तस्य (पा.सू. 6-1-67) इति वलोपः, संप्रसारणाच्च (पा.सू. 6-1-108) इति पूर्वरूपम्, हलः (पा.सू. 6-4-2) इति दीर्घः।

तिङन्तः

·       पश्य दृश् लोट्। लोट्. .पु. ..

(दृशिर् प्रेक्षणे, भ्वादिः, सि.कौ. - धा.सं. 988) लोट्, लोटः सिप्, दृश् सिप्, कर्तरि शप् (पा.सू. 3-1-68) इति शप्, पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा.सू. 7-3-78) इति पश्यादेशः, सेर्ह्यपिच्च (पा.सू. 3-4-87) इति सेः स्थाने हि। अतो हेः (पा.सू. 6-4-105) इति हेर्लुक्।

No comments:

Post a Comment

प्रथमाध्याय:, तृतीयः श्लोकः

  पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।। 1.3 ।। पदविभागः – पश्य, एताम्, पाण्डुपुत्राणाम्, ...