दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य
राजा वचनमब्रवीत्।।1.2।।
पदविभागः – दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा,
आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत्।
कारकाणि –
· पाण्डवानीकम् – दर्शनक्रियायां कर्म, व्यूढं विशेषणम्। (दृष्ट्वा)
· दुर्योधनः – दर्शनक्रियायाम्, वचनक्रियायाम्, उपसङ्गमनक्रियायां च कर्ता,
राजा विशेषणम्।(दृष्ट्वा, उपसङ्गम्य, अब्रवीत्)· आचार्यम् – उपसङ्गमनक्रियायां कर्म। (उपसङ्गम्य)
· वचनम् – वचनक्रियायां कर्म। (अब्रवीत्)
सन्धयः
· पाण्डवानीकम् – पाण्डव अनीकम्
अकः सवर्णे दीर्घः (पा.सू. 6-4-71) इति सवर्णदीर्घः।
· दुर्योधनस्तदा – दुर्योधनस् तदा
ससजुषो रुः (पा.सू. 7-3-84) रुत्वम्, खरवसानयोर्विसर्जनीयः (पा.सू. 7-3-84) विसर्गः, विसर्जनीयस्य सः (पा.सू. 7-3-84) सः।
समासः
· पाण्डवानीकम् – पाण्डवानाम् अनीकम्, षष्ठी (पा.सू. 2-2-8) इति समासः।
पाण्डव – पाण्डु अण्
ऋष्यन्धकवृष्णिकुरुभ्यश्च (पा.सू. 4-1-114) इति अण्-प्रत्ययः, ओर्गुणः (पा.सू. 6-4-146) इति गुणः, एचोऽयवायावः (पा.सू. 6-1-78) इति अवादेशः। पाण्डु इत्यत्र पड्-धातोः (पडि गतौ, भ्वादिः, सि.कौ. - धा.सं. 281) इदितो नुम्धातोः (पा.सू. 7-1-58) इति नुम्, नश्चापदान्तस्य झलि (पा.सू. 8-3-24) इति नकारस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः (पा.सू. 8-4-58) इति अनुस्वारस्य परसवर्णः णकारः, ततः मृगय्वादयश्च (उणा. 1-37) इति कु-प्रत्ययः, पृषोदरादीनि यथोपदिष्टम् (पा.सू. 6-3-109) इति धातोः अकारस्य दीर्घः।
अनीक – अन् ईकन्
(अन प्राणने, अदादिः, सि.कौ. - धा.सं. 1070) अनिहृषिभ्यां किच्च (उणा. 4-17) इति ईकन्-प्रत्ययः। पुं. द्वि.वि. ए.व.।
कृदन्ताः
· दृष्ट्वा – दृश् क्त्वा। अव्ययम्।
(दृशिर् प्रेक्षणे, भ्वादिः, सि.कौ. - धा.सं. 988) समानकर्तृकयोः पूर्वकाले (पा.सू. 3-4-21) इति क्त्वा-प्रत्ययः, पुगन्तलघूपधस्य च (पा.सू. 7-3-86) इति गुणः प्राप्तः, क्ङिति च (पा.सू. 1-1-5) इति गुणनिषेधः, व्रश्चभ्रस्जसृजमृजजराजभ्राजच्छशां षः (पा.सू. 8-2-36) इति षः, ष्टुना ष्टुः (पा.सू. 8-4-41) इति ष्टुत्वम्।
· व्यूढम् – वि वह् क्त। पुं. द्वि.वि. ए.व.।
(वह प्रापणे, भ्वादिः, सि.कौ. - धा.सं. 1004) निष्ठा (पा.सू. 3-2-102) इति क्त-प्रत्ययः, वचिस्वपियजादीनां किति (पा.सू. 6-1-15) इति सम्प्रसारणम्, संप्रसारणाच्च (पा.सू. 6-1-108) इति पूर्वरूपम्, वि उह् त इको यणचि (पा.सू. 6-1-77) इति यण्, हो ढः (पा.सू. 8-2-31) इति हकारस्य ढकारः, झषस्तथोर्धोऽधः (पा.सू. 8-2-40) इति तस्य धः, ष्टुना ष्टुः (पा.सू. 8-4-41) इति ष्टुत्वम्, ढो ढे लोपः (पा.सू. 8-3-13) इति ढस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः (पा.सू. 6-3-111) इति अणः दीर्घः।
· दुर्योधनः – दुर् युध् युच्। पुं. प्र.वि. ए.व.।
(युध सम्प्रहारे, दिवादिः, सि.कौ. - धा.सं. 1173) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः (वा. 2243) इति युच्-प्रत्ययः, युवोरनाकौ (पा.सू. 7-1-1) इति अनादेशः, पुगन्तलघूपधस्य च (पा.सू. 7-3-86) इति गुणः।
· आचार्यम् – आङ् चर् ण्यत्
(चर गतौ भक्षणे च, भ्वादिः, सि.कौ. - धा.सं. 559) ऋहलोर्ण्यत् (पा.सू. 3-1-124) इति ण्यत्, अत उपधायाः (पा.सू. 7-2-116) इति वृद्धिः। पुं. द्वि.वि. ए.व.।
· उपसङ्गम्य – उप सम् गम् क्त्वा
(गमॢ गतौ, भ्वादिः, सि.कौ. - धा.सं.982) समानकर्तृकयोः पूर्वकाले (पा.सू. 3-4-21) इति क्त्वा-प्रत्ययः, समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा.सू. 7-1-37) इति ल्यप्, वा ल्यपि (पा.सू. 6-4-38) इति विकल्पेन अनुनासिकलोपः, अनुनासिकलोपाभावे उपसङ्गम्य। अव्ययम्।
· राजा – राज् कनिन्। पुं. प्र.वि. ए.व.।
(राजृ दीप्तौ, भ्वादिः, सि.कौ. - धा.सं. 822) कनिन् युवृषितक्षिराजधिन्विद्युप्रतिदिवः (उणा. 4-154) इति सूत्रेण कनिन्-प्रत्ययः।
· वचनम् – वच् ल्युट्। नपुं. द्वि.वि. ए.व.।
(वच परिभाषणे, अदादिः, सि.कौ. - धा.सं. 1063) ल्युट् च (पा.सू. 3-3-115) इति ल्युट्-प्रत्ययः, युवोरनाकौ (पा.सू. 7-1-1) इति यु-स्थाने अनादेशः।
तद्धितान्ताः
· तदा – तद् दा। अव्ययम्।
तदो दा च (पा.सू. 5-3-19) इति दा-प्रत्ययः, त्यदादीनामः (पा.सू. 7-2-102) इति दकारस्य अः, अतो गुणे (पा.सू. 6-1-97) इति पररूपम्। तद् इत्यत्र तन्-धातोः (तनु विस्तारे, तनादिः, सि.कौ. - धा.सं. 1463) त्यजितनियजिभ्यो डित् (उणा. 1-129) इति अदि-प्रत्ययः, डित्त्वसामर्थात् टेः लोपः।
अव्ययम्
· तु – तुद् डु। अव्ययम्।
(तुद व्यथने, तुदादिः, सि.कौ. - धा.सं. 1281) मितद्र्वादिभ्य उपसंख्यानम् (वा. 2152) इति वार्तिकेन डु-प्रत्ययः, डित्त्वसामर्थ्यात् टेः लोपः।
तिङन्तः
· अब्रवीत् – ब्रू लङ्। लङ्, प्र.पु. ए.व.।
(ब्रूञ् व्यक्तायां वाचि, अदादिः, सि.कौ. - धा.सं. 1044) लङ्, ब्रू तिप्, कर्तरि शप् (पा.सू. 3-1-68) इति शप्, अदिप्रभृतिभ्यः शपः (पा.सू. 2-4-72) इति शपः लुक्, इतश्च (पा.सू. 3-4-100) इति इकारस्य लोपः, ब्रुव ईट् (पा.सू. 7-3-93) इति ईट्-आगमः, सार्वधातुकार्धधातुकयोः (पा.सू. 7-3-84) इति गुणः, लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा.सू. 6-4-71) इति अट्-आगमः अब्रवीत्।
No comments:
Post a Comment