पश्यैतां
पाण्डुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां
द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।
पदविभागः – पश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य, महतीम्, चमूम्,
व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता।
कारकाणि
· पाण्डुपुत्राणाम् – चमुना सम्बन्धः. अतः षष्ठी।
· चमूम् – दर्शनक्रियायां कर्मकारकम्, महतीम्, एताम्, व्यूढाम् – विशेषणम्।
· द्रुपदपुत्रेण – व्यूहनक्रियायां कर्तृकारकम्, धीमता, शिष्येण – विशेषणम्।
· तव – शिष्येण सम्बन्धः, षष्ठी।
सन्धयः
· पश्यैताम् – पश्य एताम्
वृद्धिरेचि (पा.सू. 6-1-88) इति वृद्धिसन्धिः।
समासाः
· पाण्डुपुत्राणाम् – पाण्डोः पुत्राः तेषाम्,
षष्ठी (पा.सू.
2-2-8) इति समासः। पुं. ष.वि. ब.व.।
पाण्डु – पण्ड् कु
(पडि गतौ, भ्वादिः, सि.कौ. - धा.सं. 281) इदितो नुम्धातोः (पा.सू. 7-1-58) इति नुम्, नश्चापदान्तस्य झलि (पा.सू. 8-3-24) इति नकारस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः
(पा.सू. 8-4-58) इति अनुस्वारस्य परसवर्णः णकारः, ततः मृगय्वादयश्च (उणा. 1-37) इति कु-प्रत्ययः,
पृषोदरादीनि यथोपदिष्टम् (पा.सू. 6-3-109) इति धातोः अकारस्य दीर्घः।
पुत्र – पू क्त्र
(पूङ् पवने, भ्वादिः, सि.कौ.
- धा.सं. 966) पुवो
ह्रस्वश्च (उणा. 4-164) इति
क्त्र-प्रत्ययः, सार्वधातुकार्धधातुकयोः (पा.सू.
7-3-84) इति गुणः प्राप्तः, क्ङिति च
(पा.सू. 1-1-5) इति गुणनिषेधः। अथवा पुत्-नामनरकात् त्रायते इति पुत्पूर्वकात् त्रै-धातोः
(त्रैङ् पालने, भ्वादिः, सि.कौ.
- धा.सं. 965) ऐकारस्य
आदेच उपदेशेऽशिति
(पा.सू. 6-1-45) इति आत्वम्, सुपि (पा.सू. 3-2-4) इति योगविभागेन क-प्रत्ययः, उपपदमतिङ् (पा.सू.
2-2-19) इति समासः, आतो लोप इटि च (पा.सू. 6-4-64) इति आ-लोपः, पुत् इत्यत्र पृ-धातोः (पृ प्रीतौ,
स्वादिः, सि.कौ. - धा.सं.
1258) बाहुलकात् डुति-प्रत्ययः, डित्त्वसामर्थ्यात् टेः लोपः।
· द्रुपदपुत्रेण (1-3) – द्रुपदस्य पुत्रः षष्ठी (पा.सू.
2-2-8) इति समासः। पुं. तृ.वि. ए.व.।
द्रुपद - बाहुलकात् द्रु इति उपपदे पद् अच्
(पद गतौ, दिवादिः, सि.कौ. - धा.सं.1169) अच्-प्रत्ययः।
द्रु इत्यत्र द्रु-धातोः (द्रु गतौ, भ्वादिः,
सि.कौ. - धा.सं. 945) मितद्र्वादिभ्य उपसंख्यानम् (वा.
2152) इति वार्तिकेन डु-प्रत्ययः,
डित्त्वसामर्थ्यात् टेः लोपः।
पुत्र – पू क्त्र
(पूङ् पवने, भ्वादिः, सि.कौ.
- धा.सं. 966) पुवो
ह्रस्वश्च (उणा. 4-164) इति
क्त्र-प्रत्ययः, सार्वधातुकार्धधातुकयोः (पा.सू.
7-3-84) इति गुणः प्राप्तः, क्ङिति च
(पा.सू. 1-1-5) इति गुणनिषेधः। अथवा पुत्-नामनरकात् त्रायते इति पुत्पूर्वकात् त्रै-धातोः
(त्रैङ् पालने, भ्वादिः, सि.कौ. - धा.सं. 965) ऐकारस्य आदेच उपदेशेऽशिति (पा.सू. 6-1-45) इति आत्वम्, सुपि
(पा.सू. 3-2-4) इति योगविभागेन क-प्रत्ययः, उपपदमतिङ् (पा.सू. 2-2-19) इति समासः, आतो लोप
इटि च (पा.सू.
6-4-64) इति आ-लोपः, पुत् इत्यत्र
पृ-धातोः (पृ प्रीतौ, स्वादिः, सि.कौ. - धा.सं. 1258) बाहुलकात् डुति-प्रत्ययः, डित्त्वसामर्थ्यात् टेः लोपः।
कृदन्ताः
· आचार्य – आ चर् ण्यत्। पुं. सम्बो.वि. ए.व.।
(चर गतौ भक्षणे
च, भ्वादिः, सि.कौ.
- धा.सं. 559) ऋहलोर्ण्यत् (पा.सू.
3-1-124) इति ण्यत्, अचो ञ्णिति
(पा.सू. 7-2-115) इति वृद्धिः।
· व्यूढाम् - वि वह् क्त। स्त्री. द्वि.वि. ए.व.।
(वह प्रापणे, भ्वादिः, सि.कौ.
- धा.सं. 1004) निष्ठा (पा.सू.
3-2-102) इति क्त-प्रत्ययः, वचिस्वपियजादीनां किति (पा.सू. 6-1-15) इति सम्प्रसारणम्, संप्रसारणाच्च (पा.सू.
6-1-108) इति पूर्वरूपम्, इको यणचि (पा.सू. 6-1-77) इति यण्, हो ढः
(पा.सू. 8-2-31) इति हकारस्य ढकारः, ढो ढे लोपः (पा.सू. 8-3-13) इति ढस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः (पा.सू. 6-3-111) इति अणः दीर्घः, स्त्रियाम् अजाद्यतष्टाप् (पा.सू.
4-1-4) इति टाप्।
· शिष्येण – शास् क्यप्।
पुं. तृ.वि. ए.व.।
(शासु अनुशिष्टौ, अदादिः, सि.कौ.
- धा.सं. 1075) एतिस्तुशास्वृदृजुषः क्यप्
(पा.सू. 3-1-109) इति क्यप्,
शास इदङ्हलोः (पा.सू. 6-4-34) इति धातोः आकारस्य स्थाने इत्वम्,
शासिवसिघसीनाञ्च (पा.सू.
8-3-60) इति सस्य षत्वम्।
· महतीम् – महती अम्। स्त्री. द्वि.वि. ए.व.।
अमिपूर्वः (पा.सू.
6-1-107) इति पूर्वरूपम्।
महत् – मह् अति
वर्तमाने
पृषद्बृहन्महज्जगच्छतृवच्च
(उणा.2-84) इति सूत्रेण मह्-धातोः (मह पूजायाम्, भ्वादिः, सि.कौ.
- धा.सं. 730) अति-प्रत्ययान्तः निपात्यते,
उगितश्च (पा.सू.
4-1-6) इति ङीप्।
· चमूम् – चमू अम्। स्त्री. द्वि.वि. ए.व.।
अमिपूर्वः (पा.सू.
6-1-107) इति पूर्वरूपम्।
चमू – चम् ऊ
(चमु अदने,
भ्वादिः, सि.कौ. - धा.सं.
469) कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः (उणा.
1-81) इति ऊ-प्रत्ययः।
· तव – युष्मद् ङस्। पुं.
ष.वि. ए.व.।
तवममौ ङसि (पा.सू.
7-2-96) इति तवादेशः, युष्मदस्मद्भ्यां ङसोऽश् (पा.सू. 7-1-17) इति अश्।
युष्मद् – युष् मदिक्
(युष भजने, सौत्रः) युष्यसिभ्यां मदिक् (उणा.
1-136) इति मदिक्-प्रत्ययः।
· एताम् – एतद् अम्। स्त्री. द्वि.वि. ए.व.।
त्यदादीनामः (पा.सू. 6-1-97) इति अकारादेशः, अतो गुणे (पा.सू. 6-1-97) इति पररूपम्, अजाद्यतष्टाप् (पा.सू. 4-1-4) इति टाप्, अमि पूर्वः इति पूर्वरूपैकादेशः।
एतद् – इण् अद्
(इण् गतौ, अदादिः, सि.कौ. - धा.सं.
1054) एतेस्तुट् च (उणा.1.132) इति सूत्रेण अद्-प्रत्ययः प्रत्ययस्य च तुडागमः, सार्वधातुकार्धधातुकयोः (पा.सू.
7-3-84) इति गुणः।
तद्धितान्ताः
·
धीमता (1-3) – धी मतुप्। पुं.
तृ.वि. ए.व.।
तदस्यास्त्यस्मिन्निति मतुप् (पा.सू.
5-2-94) इति मतुप्-प्रत्ययः। धी इत्यत्र ध्यै-धातोः (ध्यै चिन्तायाम्, भ्वादिः, सि.कौ.
- धा.सं.908) ध्यायतेः सम्प्रसारणं च (वा. 2151) इति क्विप् सम्प्रसारणं च, क्विपः सर्वलोपः - हलन्त्यम् (पा.सू. 1-3-3) इति पस्य उपदेशेऽजनुनासिक इत्
(पा.सू. 1-3-2) इति इकारस्य लशक्वतद्धिते (पा.सू.
1-3-8) इति ककारस्य च इत्संज्ञा, तस्य लोपः
(पा.सू. 1-3-9) इति इत्संज्ञकानां लोपः, वेरपृक्तस्य (पा.सू. 6-1-67) इति वलोपः,
संप्रसारणाच्च (पा.सू.
6-1-108) इति पूर्वरूपम्, हलः (पा.सू. 6-4-2) इति दीर्घः।
तिङन्तः
· पश्य – दृश् लोट्। लोट्. म.पु. ए.व.।
(दृशिर् प्रेक्षणे, भ्वादिः, सि.कौ.
- धा.सं. 988) लोट्,
लोटः सिप्, दृश् सिप्, कर्तरि शप् (पा.सू. 3-1-68) इति शप्, पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः
(पा.सू. 7-3-78) इति पश्यादेशः, सेर्ह्यपिच्च (पा.सू. 3-4-87) इति सेः स्थाने हि। अतो हेः (पा.सू. 6-4-105) इति हेर्लुक्।